Sukta 3.45
वृत्रखादो वलंरुजः पुरां दर्मो अपामजः । स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः ॥
वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः । स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इन्द्रो॑ दृ॒ळ्हा चि॑दारु॒जः ॥
vṛtrakhādó valaṃrujáḥ purā́ṃ darmó apām ajáḥ | sthātā́ ráthasya háryor abhisvará índro dṛḷhā́ cid ārujáḥ ||
Devourer of the Vṛtra-coverings, breaker of the Vala-enclosure, splitter of the cities, driver of the waters’ birth: Indra, standing upon the chariot of the tawny powers with a resounding onset, shatters even what is firmly fixed.
वृ॒त्र॒ऽखा॒दः । व॒ल॒म्ऽरु॒जः । पु॒राम् । द॒र्मः । अ॒पाम् । अ॒जः । स्थाता॑ । रथ॑स्य । हर्योः॑ । अ॒भि॒ऽस्व॒रे । इन्द्रः॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जः ॥वृत्रखादः । वलम्रुजः । पुराम् । दर्मः । अपाम् । अजः । स्थाता । रथस्य । हर्योः । अभिस्वरे । इन्द्रः । दृळ्हा । चित् । आरुजः ॥vṛtra-khādaḥ | valam-rujaḥ | purām | darmaḥ | apām | ajaḥ | sthātā | rathasya | haryoḥ | abhi-svare | indraḥ | dṛḷhā | cit | ārujaḥ