Sukta 3.45
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि ॥
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥
ā mandráir indra háribhir yā́hi mayū́raroma-bhiḥ | mā́ tvā ké cin ní yaman vím ná pāśíno 'tí dhánveva tā́ṃ íhi ||
Come, O Indra, with your gladdening tawny powers, with those bright-plumed energies. Let no binders restrain you in your movement—pass beyond them, as across an open expanse; come straight through to us.
आ । म॒न्द्रैः । इ॒न्द्र॒ । हरि॑ऽभिः । या॒हि । म॒यूर॑रोमऽभिः । मा । त्वा॒ । के । चि॒त् । नि । य॒म॒न् । विम् । न । पा॒शिनः॑ । अति॑ । धन्व॑ऽइव । तान् । इ॒हि॒ ॥आ । मन्द्रैः । इन्द्र । हरिभिः । याहि । मयूररोमभिः । मा । त्वा । के । चित् । नि । यमन् । विम् । न । पाशिनः । अति । धन्वइव । तान् । इहि ॥ā | mandraiḥ | indra | hari-bhiḥ | yāhi | mayūraroma-bhiḥ | mā | tvā | ke | cit | ni | yaman | vim | na | pāśinaḥ | ati | dhanva-iva | tān | ihi