Sukta 3.44
द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् । अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥
द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् । अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑र॒न्तर्हरि॒श्चर॑त् ॥
dyā́m índro háridhāyasaṃ pṛthivī́ṃ hárivarpsam | ádhārayad háritor bhū́ri bhójanaṃ yáyor antár háriś cárat ||
Indra upheld the Heaven full of tawny brilliance, and the Earth rich with tawny forms. He established abundant nourishment for the two tawny powers—between whom the luminous Energy moves and works.
द्याम् । इन्द्रः॑ । हरि॑ऽधायसम् । पृ॒थि॒वीम् । हरि॑ऽवर्पसम् । अधा॑रयत् । ह॒रितोः॑ । भूरि॑ । भोज॑नम् । ययोः॑ । अ॒न्तः । हरिः॒ । चर॑त् ॥द्याम् । इन्द्रः । हरिधायसम् । पृथिवीम् । हरिवर्पसम् । अधारयत् । हरितोः । भूरि । भोजनम् । ययोः । अन्तः । हरिः । चरत् ॥dyām | indraḥ | hari-dhāyasam | pṛthivīm | hari-varpasam | adhārayat | hari toḥ | bhūri | bhojanam | yayoḥ | antaḥ | hariḥ | carat