Sukta 3.44
जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् । हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् ॥
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नम् । हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरि॑म् ॥
jajñānó hárito vṛ́ṣā víśvam ā́ bhāti rocanám | háryaśvo háritaṃ dhatte ā́yudham ā́ vájraṃ bāhvór hárim ||
Born as the Bull of the tawny powers, the whole luminous world shines out. Indra of tawny steeds takes up the tawny weapon; he sets the thunderbolt, the luminous might, upon his arms for the work of victory.
ज॒ज्ञा॒नः । हरि॑तः । वृषा॑ । विश्व॑म् । आ । भा॒ति॒ । रो॒च॒नम् । हरि॑ऽअश्वः । हरि॑तम् । ध॒त्ते॒ । आयु॑धम् । आ । वज्र॑म् । बा॒ह्वोः । हरि॑म् ॥जज्ञानः । हरितः । वृषा । विश्वम् । आ । भाति । रोचनम् । हरिअश्वः । हरितम् । धत्ते । आयुधम् । आ । वज्रम् । बाह्वोः । हरिम् ॥jajñānaḥ | haritaḥ | vṛṣā | viśvam | ā | bhāti | rocanam | hari-aśvaḥ | haritam | dhatte | āyudham | ā | vajram | bāhvoḥ | harim