Sukta 3.44
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः । विद्वाँश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥
ह॒र्यन्नु॒षस॑मर्चय॒: सूर्यं॑ ह॒र्यन्न॑रोचयः । वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इन्द्र॒ विश्वा॑ अ॒भि श्रिय॑: ॥
háryann uṣásam arcayaḥ sū́ryaṃ háryann arocayaḥ | vidvā́ṃś cikitvā́n haryáśva vardhase índra víśvā abhi śríyaḥ ||
With the tawny ardor you hymn the Dawn; with the tawny ardor you make the Sun to shine forth. Knowing, discerning, O Indra of tawny steeds, you grow into all splendors—into every power of luminous fulfilment.
ह॒र्यन् । उ॒षस॑म् । अ॒र्च॒यः॒ । सूर्य॑म् । ह॒र्यन् । अ॒रो॒च॒यः॒ । वि॒द्वान् । चि॒कि॒त्वान् । ह॒रि॒ऽअ॒श्व॒ । व॒र्ध॒से॒ । इन्द्र॑ । विश्वा॑ । अ॒भि । श्रियः॑ ॥हर्यन् । उषसम् । अर्चयः । सूर्यम् । हर्यन् । अरोचयः । विद्वान् । चिकित्वान् । हरिअश्व । वर्धसे । इन्द्र । विश्वा । अभि । श्रियः ॥haryan | uṣasam | arcayaḥ | sūryam | haryan | arocayaḥ | vidvān | cikitvān | hari-aśva | vardhase | indra | viśvā | abhi | śriyaḥ