Sukta 3.44
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥
अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः । जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म् ॥
ayáṃ te astu haryatáḥ sóma ā háribhiḥ sutáḥ | juṣāṇá indra háribhir na ā́ gáhyā́ tíṣṭha háritaṃ rátham ||
This Soma is for you—delightful—pressed with the tawny powers. Accepting it, O Indra, come to us with your tawny energies; arrive and take your stand upon the green-golden chariot within our offering-field.
अ॒यम् । ते॒ । अ॒स्तु॒ । ह॒र्य॒तः । सोमः॑ । आ । हरि॑ऽभिः । सु॒तः । जु॒षा॒णः । इ॒न्द्र॒ । हरि॑ऽभिः । नः॒ । आ । ग॒हि॒ । आ । ति॒ष्ठ॒ । हरि॑तम् । रथ॑म् ॥अयम् । ते । अस्तु । हर्यतः । सोमः । आ । हरिभिः । सुतः । जुषाणः । इन्द्र । हरिभिः । नः । आ । गहि । आ । तिष्ठ । हरितम् । रथम् ॥ayam | te | astu | haryataḥ | somaḥ | ā | hari-bhiḥ | sutaḥ | juṣāṇaḥ | indra | hari-bhiḥ | naḥ | ā | gahi | ā | tiṣṭha | haritam | ratham