Sukta 3.43
इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार । यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ । यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥
índra píba vṛ́ṣadhūtasya vṛ́ṣṇa ā yáṃ te śyēná uśaté jabhā́ra | yásya máde cyāváyasi prá kṛ́ṣṭīr yásya máde ápa gotrā́ vavártha ||
Indra, drink—O Bull—the Soma clarified by the strong ones, that which the eager falcon has brought to you. In whose ecstasy you set the peoples’ energies moving forward; in whose ecstasy you rolled away the pens that imprison the rays (the hidden ‘cows’).
इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ । आ । यम् । ते॒ । श्ये॒नः । उ॒श॒ते । ज॒भार॑ । यस्य॑ । मदे॑ । च्या॒वय॑सि । प्र । कृ॒ष्टीः । यस्य॑ । मदे॑ । अप॑ । गो॒त्रा । व॒वर्थ॑ ॥इन्द्र । पिब । वृषधूतस्य । वृष्णः । आ । यम् । ते । श्येनः । उशते । जभार । यस्य । मदे । च्यावयसि । प्र । कृष्टीः । यस्य । मदे । अप । गोत्रा । ववर्थ ॥indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ | ā | yam | te | śyenaḥ | uśate | jabhāra | yasya | made | cyāvayasi | pra | kṛṣṭīḥ | yasya | made | apa | gotrā | vavartha