Sukta 3.43
आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु । प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः ॥
आ त्वा॑ बृ॒हन्तो॒ हर॑यो युजा॒ना अ॒र्वागि॑न्द्र सध॒मादो॑ वहन्तु । प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याता॒: सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ॥
ā tvā bṛhánto hárayo yujānā́ arvā́g indra sadhamā́do vahantu | prá ye dvitā́ díva ṛ́ñjanty ātā́ḥ súsammṛṣṭāso vṛṣabhásya mūrā́ḥ ||
May the strong tawny steeds, yoked, bring you here to us, O Indra, for the shared ecstasy of the rite. Those that are driven forth from heaven, that run out in their double course—well-groomed energies of the Bull—let them bear you inwardly into our field of offering.
आ । त्वा॒ । बृ॒हन्तः॑ । हर॑यः । यु॒जा॒नाः । अ॒र्वाक् । इ॒न्द्र॒ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ । प्र । ये । द्वि॒ता । दि॒वः । ऋ॒ञ्जन्ति॑ । आताः॑ । सुऽस॑म्मृष्टासः । वृ॒ष॒भस्य॑ । मू॒राः ॥आ । त्वा । बृहन्तः । हरयः । युजानाः । अर्वाक् । इन्द्र । सधमादः । वहन्तु । प्र । ये । द्विता । दिवः । ऋञ्जन्ति । आताः । सुसम्मृष्टासः । वृषभस्य । मूराः ॥ā | tvā | bṛhantaḥ | harayaḥ | yujānāḥ | arvāk | indra | sadha-mādaḥ | vahantu | pra | ye | dvitā | divaḥ | ṛñjanti | ātāḥ | su-sammṛṣṭāsaḥ | vṛṣabhasya | mūrāḥ