Sukta 3.43
कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् । कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥
कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् । कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षा॑: ॥
kuvín mā gopā́ṃ karase jánasya kuvíd rājā́nam maghavann ṛjīṣin | kuvín ma ṛ́ṣiṃ papivā́ṃsaṃ sutásya kuvín me vásvo amṛ́tasya śíkṣāḥ ||
Will you indeed become for me the protector of the peoples—will you indeed be my king, O Maghavan, wielder of the straight-moving force? Will you indeed make me a seer, one who has drunk of the pressed Soma; will you indeed instruct me in the riches of the Deathless—those plenitudes that bring the soul to fullness?
कु॒वित् । मा॒ । गो॒पाम् । कर॑से । जन॑स्य । कु॒वित् । राजा॑नम् । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । कु॒वित् । मा॒ । ऋषि॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ । कु॒वित् । मे॒ । वस्वः॑ । अ॒मृत॑स्य । शिक्षाः॑ ॥कुवित् । मा । गोपाम् । करसे । जनस्य । कुवित् । राजानम् । मघवन् । ऋजीषिन् । कुवित् । मा । ऋषिम् । पपिवांसम् । सुतस्य । कुवित् । मे । वस्वः । अमृतस्य । शिक्षाः ॥kuvit | mā | gopām | karase | janasya | kuvit | rājānam | magha-van | ṛjīṣin | kuvit | mā | ṛṣim | papi-vāṃsam | sutasya | kuvit | me | vasvaḥ | amṛtasya | śikṣāḥ