Sukta 3.43
आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि ॥
आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वङ्गा॑ । धा॒नाव॒दिन्द्र॒: सव॑नं जुषा॒णः सखा॒ सख्यु॑: शृणव॒द्वन्द॑नानि ॥
ā́ ca tvā́m etā́ vṛ́ṣaṇā vahāto hárī sakhāyā su-dhúrā sv-áṅgā | dhānā́vad índraḥ sávanaṁ juṣāṇáḥ sakhā́ sakhyúḥ śṛṇavád vándanāni ||
And these two mighty companions, the bay steeds, well-yoked and strong-limbed, bear thee hither. Let Indra, rich in the grain of increase, accept the pressing; as friend of the friend, may he hear our words of adoration.
आ । च॒ । त्वाम् । ए॒ता । वृष॑णा । वहा॑तः । हरी॒ इति॑ । सखा॑या । सु॒ऽधुरा॑ । सु॒ऽअङ्गा॑ । धा॒नाऽव॑त् । इन्द्रः॑ । सव॑नम् । जु॒षा॒णः । सखा॑ । सख्युः॑ । शृ॒ण॒व॒त् । वन्द॑नानि ॥आ । च । त्वाम् । एता । वृषणा । वहातः । हरी इति । सखाया । सुधुरा । सुअङ्गा । धानावत् । इन्द्रः । सवनम् । जुषाणः । सखा । सख्युः । शृणवत् । वन्दनानि ॥ā | ca | tvām | etā | vṛṣaṇā | vahātaḥ | harī iti | sakhāyā | su-dhurā | su-aṅgā | dhānāvat | indraḥ | savanam | juṣāṇaḥ | sakhā | sakhyuḥ | śṛṇavat | vandanāni