Sukta 3.43
आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् । अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥
आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् । अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ॥
ā́ no yajñáṁ namo-vṛ́dhaṁ sa-jóṣā índra deva háribhir yāhi tū́yam | aháṁ hí tvā matíbhir jóhavīmi ghṛtá-prayāḥ sadhá-māde madhū́nām ||
Come to our sacrifice that increases by reverence; come in one accord, O divine Indra, swiftly with thy bay steeds. For I call thee again and again with my thought-offerings, rich in clarified light, to the common rapture of the honeyed delights.
आ । नः॒ । य॒ज्ञम् । न॒मः॒ऽवृध॑म् । स॒ऽजोषाः॑ । इन्द्र॑ । दे॒व॒ । हरि॑ऽभिः । या॒हि॒ । तूय॑म् । अ॒हम् । हि । त्वा॒ । म॒तिऽभिः॑ । जोह॑वीमि । घृ॒तऽप्र॑याः । स॒ध॒ऽमादे॑ । मधू॑नाम् ॥आ । नः । यज्ञम् । नमःवृधम् । सजोषाः । इन्द्र । देव । हरिभिः । याहि । तूयम् । अहम् । हि । त्वा । मतिभिः । जोहवीमि । घृतप्रयाः । सधमादे । मधूनाम् ॥ā | naḥ | yajñam | namaḥ-vṛdham | sa-joṣāḥ | indra | deva | hari-bhiḥ | yāhi | tūyam | aham | hi | tvā | mati-bhiḥ | johavīmi | ghṛta-prayāḥ | sadha-māde | madhūnām