Sukta 3.43
आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्याम् । इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥
आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् । इ॒मा हि त्वा॑ म॒तय॒: स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ॥
ā́ yāhi pūrvī́r áti carṣaṇī́r ā́ aryá ā́śiṣa úpa no háribhyām | imā́ hí tvā matáyaḥ stóma-taṣṭā́ índra hávante sakhyáṁ juṣāṇā́ḥ ||
Come, passing beyond the many races of men; come, noble one, with thy bay steeds, to our aspirations. For these thoughts, shaped into hymns, call thee, O Indra, desiring thy friendship and consenting to thy joy.
आ । या॒हि॒ । पू॒र्वीः । अति॑ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒ऽशिषः॑ । उप॑ । नः॒ । हरि॑ऽभ्याम् । इ॒माः । हि । त्वा॒ । म॒तयः॑ । स्तोम॑ऽतष्टाः । इन्द्र॑ । हव॑न्ते । स॒ख्यम् । जु॒षा॒णाः ॥आ । याहि । पूर्वीः । अति । चर्षणीः । आ । अर्यः । आशिषः । उप । नः । हरिभ्याम् । इमाः । हि । त्वा । मतयः । स्तोमतष्टाः । इन्द्र । हवन्ते । सख्यम् । जुषाणाः ॥ā | yāhi | pūrvīḥ | ati | carṣaṇīḥ | ā | aryaḥ | āśiṣaḥ | upa | naḥ | hari-bhyām | imāḥ | hi | tvā | matayaḥ | stoma-taṣṭāḥ | indra | havante | sakhyam | juṣāṇāḥ