Sukta 3.43
आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् । प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥
आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिव॑: सोम॒पेय॑म् । प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते ॥
ā́ yāhy arvā́ṅ úpa vandhureṣṭhā́s távéd ánu pra-dívaḥ soma-péyam | priyā́ sakhāyā́ ví mucópa bárhis tvā́m imé havya-vā́ho havante ||
Come hither, turning toward us; mount the chariot-seat that is thine, and follow the wide heaven’s path to the Soma-drinking. O beloved friends, spread out the sacred seat; these bearers of the offering call thee to the inner feast.
आ । या॒हि॒ । अ॒र्वाङ् । उप॑ । व॒न्धु॒रे॒ऽस्थाः । तव॑ । इत् । अनु॑ । प्र॒ऽदिवः॑ । सो॒म॒ऽपेय॑म् । प्रि॒या । सखा॑या । वि । मु॒च॒ । उप॑ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒ऽवाहः॑ । ह॒व॒न्ते॒ ॥आ । याहि । अर्वाङ् । उप । वन्धुरेस्थाः । तव । इत् । अनु । प्रदिवः । सोमपेयम् । प्रिया । सखाया । वि । मुच । उप । बर्हिः । त्वाम् । इमे । हव्यवाहः । हवन्ते ॥ā | yāhi | arvāṅ | upa | vandhure--sthāḥ | tava | it | anu | pra-divaḥ | soma-peyam | priyā | sakhāyā | vi | muca | upa | barhiḥ | tvām | ime | havya-vāhaḥ | havante