Sukta 3.42
इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो । जठरे वाजिनीवसो ॥
इन्द्र॒ सोमा॑: सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो । ज॒ठरे॑ वाजिनीवसो ॥
índra sómāḥ sutā́ imé tā́n dadhiṣva śatakrato | jaṭháre vājinīvaso ||
Indra, these Soma-joys are pressed and ready; set them within thy belly, O thou of a hundred powers. O lord of plenitudes, grow strong in the inward holding of this delight.
इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ॥इन्द्र । सोमाः । सुताः । इमे । तान् । दधिष्व । शतक्रतो इति शतक्रतो । जठरे । वाजिनीवसो इति वाजिनीवसो ॥indra | somāḥ | sutāḥ | ime | tān | dadhiṣva | śatakrato itiśata-krato | jaṭhare | vājinīvaso itivājinī-vaso