Sukta 3.41
अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना । घृतस्नू बर्हिरासदे ॥
अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑ । घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥
arvā́ñcaṃ tvā sukhé ráthe váhatām índra keśínā | ghṛtasnū́ bárhir āsáde ||
May the radiant ones bear you hither on the easy-going chariot, O Indra; may you come to sit upon the barhis that is dripping with clarified light—ready for your descent and your action.
अर्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥अर्वाञ्चम् । त्वा । सुखे । रथे । वहताम् । इन्द्र । केशिना । घृतस्नू इति घृतस्नू । बर्हिः । आसदे ॥arvāñcam | tvā | su-khe | rathe | vahatām | indra | keśinā | ghṛtasnūitighṛta-snū | barhiḥ | āsade