Sukta 3.40
इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । स पाहि मध्वो अन्धसः ॥
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे । स पा॑हि॒ मध्वो॒ अन्ध॑सः ॥
índra tvā vṛṣabháṁ vayáṁ suté sóme havāmahe | sá pāhi mádhvo ándhasaḥ ||
Indra, thee the Bull-power we call in the pressed Soma; do thou guard and foster the sweetness of the vital essence (the pressed delight) within us.
इन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ । सः । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥इन्द्र । त्वा । वृषभम् । वयम् । सुते । सोमे । हवामहे । सः । पाहि । मध्वः । अन्धसः ॥indra | tvā | vṛṣabham | vayam | sute | some | havāmahe | saḥ | pāhi | madhvaḥ | andhasaḥ