Sukta 3.39
ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः । भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥
ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरे॑: । भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥
jyótir yajñā́ya ródasī́ ánu ṣyād ā́re syāma duritásya bhū́reḥ | bhū́ri cid dhí tujátó mártyasya su-pārā́so vasavo barháṇāvat ||
May Light follow the sacrifice, and Heaven-and-Earth attend it; may we be far from the abundant distress. For many indeed are the pressures upon the mortal who is assailed; but you, O Vasus, are good-crossers, bearing the power to lift and widen.
ज्योतिः॑ । य॒ज्ञाय॑ । रोद॑सी॒ इति॑ । अनु॑ । स्या॒त् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तस्य॑ । भूरेः॑ । भूरि॑ । चि॒त् । हि । तु॒ज॒तः । मर्त्य॑स्य । सु॒ऽपा॒रासः॑ । व॒स॒वः॒ । ब॒र्हणा॑ऽवत् ॥ज्योतिः । यज्ञाय । रोदसी इति । अनु । स्यात् । आरे । स्याम । दुःइतस्य । भूरेः । भूरि । चित् । हि । तुजतः । मर्त्यस्य । सुपारासः । वसवः । बर्हणावत् ॥jyotiḥ | yajñāya | rodasī iti | anu | syāt | āre | syāma | duḥ-itasya | bhūreḥ | bhūri | cit | hi | tujataḥ | martyasya | su-pārāsaḥ | vasavaḥ | barhaṇāvat