Sukta 3.39
इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः । गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥
इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥
índro mádhu sámbhṛtam usríyāyāṁ padvád viveda śaphávann áme góḥ | gúhā hitáṁ gúhyaṁ gūḷhám apsú háste dadhé dákṣiṇe dákṣiṇāvān ||
Indra found the honey gathered in the shining Cow; he found it as one who knows the track, at the hoof-mark, in the raw force of the ray. Hidden in the cave, secret and concealed in the waters, he set it in his right hand—he who is rich in the right-giving power.
इन्द्रः॑ । मधु॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । प॒त्ऽवत् । वि॒वे॒द॒ । श॒फऽव॑त् । नमे॑ । गोः । गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । हस्ते॑ । द॒धे॒ । दक्षि॑णे । दक्षि॑णऽवान् ॥इन्द्रः । मधु । सम्भृतम् । उस्रियायाम् । पत्वत् । विवेद । शफवत् । नमे । गोः । गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्सु । हस्ते । दधे । दक्षिणे । दक्षिणवान् ॥indraḥ | madhu | sam-bhṛtam | usriyāyām | pat-vat | viveda | śapha-vat | name | goḥ | guhā | hitam | guhyam | gūḷham | ap-su | haste | dadhe | dakṣiṇe | dakṣiṇa-vān