Sukta 3.39
सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् । सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥
सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् । स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वै॒: सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म् ॥
sákhā ha yátra sákhibhir náva-gvair abhí-jñvā́ sátvabhir gā́ anugmán | satyáṁ tád índro daśábhir dáśa-gvaiḥ sū́ryaṁ viveda támási kṣiyántam ||
As a comrade, there where with comrades—the Navagvas—knowing the way with powers of being, they followed the Rays (Cows). That indeed is Truth: Indra with the ten—Dashagvas—found the Sun dwelling within the darkness.
सखा॑ । ह॒ । यत्र॑ । सखि॑ऽभिः । नव॑ऽग्वैः । अ॒भि॒ऽज्ञु । आ । सत्व॑ऽभिः । गाः । अ॒नु॒ऽग्मन् । स॒त्यम् । तत् । इन्द्रः॑ । द॒शऽभिः॑ । दश॑ऽग्वैः । सूर्य॑म् । वि॒वे॒द॒ । तम॑सि । क्षि॒यन्त॑म् ॥सखा । ह । यत्र । सखिभिः । नवग्वैः । अभिज्ञु । आ । सत्वभिः । गाः । अनुग्मन् । सत्यम् । तत् । इन्द्रः । दशभिः । दशग्वैः । सूर्यम् । विवेद । तमसि । क्षियन्तम् ॥sakhā | ha | yatra | sakhi-bhiḥ | nava-gvaiḥ | abhi-jñu | ā | satva-bhiḥ | gāḥ | anu-gman | satyam | tat | indraḥ | daśa-bhiḥ | daśa-gvaiḥ | sūryam | viveda | tamasi | kṣiyantam