Sukta 3.39
नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः । इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥
नकि॑रेषां निन्दि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः । इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥
ná kir eṣāṁ ninditā́ mártyeṣu yé asmā́kaṁ pítaro góṣu yodhā́ḥ | índra eṣāṁ dṛṁhitā́ mā́hināvān úd gotrā́ṇi sasṛje daṁsanā́vān ||
None among mortals can reproach those—our fathers—who were warriors in the Light (the Cows). Indra, mighty in his greatness, made them firm and released upward the hidden herds (the enclosed rays) by his power of effective deed.
नकिः॑ । ए॒षा॒म् । नि॒न्दि॒ता । मर्त्ये॑षु । ये । अ॒स्माक॑म् । पि॒तरः॑ । गोषु॑ । यो॒धाः । इन्द्रः॑ । ए॒षा॒म् । दृं॒हि॒ता । माहि॑नऽवान् । उत् । गो॒त्राणि॑ । स॒सृ॒जे॒ । दं॒सना॑ऽवान् ॥नकिः । एषाम् । निन्दिता । मर्त्येषु । ये । अस्माकम् । पितरः । गोषु । योधाः । इन्द्रः । एषाम् । दृंहिता । माहिनवान् । उत् । गोत्राणि । ससृजे । दंसनावान् ॥nakiḥ | eṣām | ninditā | martyeṣu | ye | asmākam | pitaraḥ | goṣu | yodhāḥ | indraḥ | eṣām | dṛṃhitā | māhina-vān | ut | gotrāṇi | sasṛje | daṃsanāvān