Sukta 3.38
युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् । गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम् । गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिन॑: कृ॒तानि॑ ॥
yuváṁ pratnásya sādhatho mahó yád daivī́ svastíḥ pári ṇaḥ syātam | gopā́jihvasya tásthuṣo vírūpā víśve paśyanti māyínaḥ kṛtā́ni ||
You two accomplish the ancient greatness so that the divine well-being may be around us. Of the steadfast one with the guarding tongue, the masters of formation behold all the varied forms that have been made.
यु॒वम् । प्र॒त्नस्य॑ । सा॒ध॒थः॒ । म॒हः । यत् । दैवी॑ । स्व॒स्तिः । परि॑ । नः॒ । स्या॒त॒म् । गो॒पाजि॑ह्वस्य । त॒स्थुषः॑ । विऽरू॑पा । विश्वे॑ । प॒श्य॒न्ति॒ । मा॒यिनः॑ । कृ॒तानि॑ ॥युवम् । प्रत्नस्य । साधथः । महः । यत् । दैवी । स्वस्तिः । परि । नः । स्यातम् । गोपाजिह्वस्य । तस्थुषः । विरूपा । विश्वे । पश्यन्ति । मायिनः । कृतानि ॥yuvam | pratnasya | sādhathaḥ | mahaḥ | yat | daivī | svastiḥ | pari | ṇaḥ | syātam | gopājihvasya | tasthuṣaḥ | vi-rūpā | viśve | paśyanti | māyinaḥ | kṛtāni