Sukta 3.38
तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् । आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् । आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥
tád ínnv asya savitúr nákir me hiraṇyáyīm amátiṁ yā́m aśiśret | ā́ su-stutī́ rodasī viśvám-inve apī́va yóṣā jánimāni vavre ||
This indeed of Savitṛ—none can thwart for me that golden inspiration which he has set in motion. The well-praise moves the two worlds and impels all; like a woman, it chooses and bears the births of things.
तत् । इत् । नु । अ॒स्य॒ । स॒वि॒तुः । नकिः॑ । मे॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् । आ । सु॒ऽस्तु॒ती । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अपि॑ऽइव । योषा॑ । जनि॑मानि । व॒व्रे॒ ॥तत् । इत् । नु । अस्य । सवितुः । नकिः । मे । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् । आ । सुस्तुती । रोदसी इति । विश्वमिन्वे इति विश्वम्इन्वे । अपिइव । योषा । जनिमानि । वव्रे ॥at | it | nu | asya | savituḥ | nakiḥ | me | hiraṇyayīm | amatim | yām | aśiśret | ā | su-stutī | rodasī iti | viśvaminve itiviśvam-inve | api-iva | yoṣā | janimāni | vavre