Sukta 3.38
तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः । अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः । अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥
tád ínnv asya vṛṣabhásya dhenór ā́ nā́mabhir mamire sákmyaṁ góḥ | anyád anyád asuryáṁ vásānā ní māyíno mamire rū́pam asmín ||
Thus indeed, for this mighty Bull, they measured by names the shared substance of the Cow—its luminous yield. Clothing themselves in ever-new lordly powers, the masters of māyā fixed diverse forms within this being.
तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मि॒रे॒ । सक्म्य॑म् । गोः । अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् । वसा॑नाः । नि । मा॒यिनः॑ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥तत् । इत् । नु । अस्य । वृषभस्य । धेनोः । आ । नामभिः । ममिरे । सक्म्यम् । गोः । अन्यत्अन्यत् । असुर्यम् । वसानाः । नि । मायिनः । ममिरे । रूपम् । अस्मिन् ॥tat | it | nu | asya | vṛṣabhasya | dhenoḥ | ā | nāma-bhiḥ | mamire | sakmyam | goḥ | anyat-anyat | asuryam | vasānāḥ | ni | māyinaḥ | mamire | rūpam | asmin