Sukta 3.38
त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि । अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वाँ अपि वायुकेशान् ॥
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथ॒: सदां॑सि । अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥
trī́ṇi rājānā vidáthe purū́ṇi pári víśvāni bhūṣathaḥ sádāṁsi | ápaśyam átra mánasā jaganvā́n vraté gandharvā́ṁ ápi vāyúkeśān ||
O two Kings, in many assemblies you encompass and adorn all the seats of power. Here I saw with the traveling mind the Gandharvas within the law—those with hair like the wind, subtle guardians of the inspired order.
त्रीणि॑ । रा॒जा॒ना॒ । वि॒दथे॑ । पु॒रूणि॑ । परि॑ । विश्वा॑नि । भू॒ष॒थः॒ । सदां॑सि । अप॑श्यम् । अत्र॑ । मन॑सा । ज॒ग॒न्वान् । व्र॒ते । ग॒न्ध॒र्वान् । अपि॑ । वा॒युऽके॑शान् ॥त्रीणि । राजाना । विदथे । पुरूणि । परि । विश्वानि । भूषथः । सदांसि । अपश्यम् । अत्र । मनसा । जगन्वान् । व्रते । गन्धर्वान् । अपि । वायुकेशान् ॥trīṇi | rājānā | vidathe | purūṇi | pari | viśvāni | bhūṣathaḥ | sadāṃsi | apaśyam | atra | manasā | jaganvān | vrate | gandharvān | api | vāyu-keśān