Sukta 3.38
असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः । दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुध॑: सन्ति पू॒र्वीः । दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥
ásūta pū́rvo vṛṣabhó jyā́yān imā́ asya śurúdhaḥ santi pūrvī́ḥ | dívo napātā vidáthasya dhībhíḥ kṣatráṁ rājānā prádivo dadhāthe ||
First was born the elder Bull of power; these many streams of his force are primeval. O two Kings, offspring of Heaven, by visions in the sacrifice you uphold the sovereign might that comes from the luminous heaven.
असू॑त । पूर्वः॑ । वृ॒ष॒भः । ज्याया॑न् । इ॒माः । अ॒स्य॒ । शु॒रुधः॑ । स॒न्ति॒ । पू॒र्वीः । दिवः॑ । न॒पा॒ता॒ । वि॒दथ॑स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒ऽदिवः॑ । द॒धा॒थे॒ इति॑ ॥असूत । पूर्वः । वृषभः । ज्यायान् । इमाः । अस्य । शुरुधः । सन्ति । पूर्वीः । दिवः । नपाता । विदथस्य । धीभिः । क्षत्रम् । राजाना । प्रदिवः । दधाथे इति ॥asūta | pūrvaḥ | vṛṣabhaḥ | jyāyān | imāḥ | asya | śurudhaḥ | santi | pūrvīḥ | d ivaḥ | napātā | vidathasya | dhībhiḥ | kṣatram | rājānā | pra-divaḥ | dadhātheiti