Sukta 3.38
आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः । महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः । म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥
ā́tiṣṭhantaṁ pári víśve abhūṣañ chríyo vásānaś carati svár-ociḥ | mahát tád vṛ́ṣṇo ásurasya nā́mā víśva-rūpo amṛ́tāni tasthau ||
All the powers adorn Him as He rises; clothed in splendors He moves, self-luminous. Great is that Name of the mighty Asura: the All-formed stands established in the immortalities.
आ॒ऽतिष्ठ॑न्तम् । परि॑ । विश्वे॑ । अ॒भू॒ष॒न् । श्रियः॑ । वसा॑नः । च॒र॒ति॒ । स्वऽरो॑चिः । म॒हत् । तत् । वृष्णः॑ । असु॑रस्य । नाम॑ । आ । वि॒श्वऽरू॑पः । अ॒मृता॑नि । त॒स्थौ॒ ॥आतिष्ठन्तम् । परि । विश्वे । अभूषन् । श्रियः । वसानः । चरति । स्वरोचिः । महत् । तत् । वृष्णः । असुरस्य । नाम । आ । विश्वरूपः । अमृतानि । तस्थौ ॥ātiṣṭhantam | pari | viśve | abhūṣan | śriyaḥ | vasānaḥ | carati | sva-rociḥ | mahat | tat | vṛṣṇaḥ | asurasya | nāma | ā | viśva-rūpaḥ | amṛtāni | tasthau