Sukta 3.38
नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् । सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते धायसे धुः ॥
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् । सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥
ní ṣīm íd atra guhyā́ dádhānā uta kṣatrā́ya rodasī́ sám añjan | sáṁ mā́trābhir mamire yémur urvī́ antár mahī́ samṛ́te dhā́yase dhuḥ ||
Here indeed they place the secret things within; and for the power of rule they join the two worlds. With their measures they have built and bounded the wide and the vast; within the Greatness, in the perfectly joined order, they have set the foundations for nurturing.
नि । सी॒म् । इत् । अत्र॑ । गुह्या॑ । दधा॑नाः । उ॒त । क्ष॒त्राय॑ । रोद॑सी॒ इति॑ । सम् । अ॒ञ्ज॒न् । सम् । मात्रा॑भिः । म॒मि॒रे । ये॒मुः । उ॒र्वी इति॑ । अ॒न्तः । म॒ही । समृ॑ते॒ इति॒ सम्ऽऋ॑ते । धाय॑से । धुः ॥नि । सीम् । इत् । अत्र । गुह्या । दधानाः । उत । क्षत्राय । रोदसी इति । सम् । अञ्जन् । सम् । मात्राभिः । ममिरे । येमुः । उर्वी इति । अन्तः । मही । समृते इति सम्ऋते । धायसे । धुः ॥ni | sīm | it | atra | guhyā | dadhānāḥ | uta | kṣatrāya | rodasī iti | sam | añjan | sam | mātrābhiḥ | mamire | yemuḥ | urvī iti | antaḥ | mahī | samṛteitisam-ṛte | dhāyase | dhuḥ