Sukta 3.38
इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् । इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृत॑: सु॒कृत॑स्तक्षत॒ द्याम् । इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥
inóta pṛ́ccha jánimā kavīnā́m manodhṛ́taḥ su-kṛ́tas takṣata dyā́m | imā́ u te práṇyo vardhamānā mánovātā ádha nú dhármaṇi gman ||
Urge on and question the birth of the seers: the well-fashioned powers, held by the mind, have shaped the heaven of consciousness. These life-movements of yours grow, driven by the wind of mind; then indeed they go in the law, the right order.
इ॒ना । उ॒त । पृ॒च्छ॒ । जनि॑म । क॒वी॒नाम् । म॒नः॒ऽधृतः॑ । सु॒ऽकृतः॑ । त॒क्ष॒त॒ । द्याम् । इ॒माः । ऊँ॒ इति॑ । ते॒ । प्र॒ऽन्यः॑ । वर्ध॑मानाः । मनः॑ऽवाताः । अध॑ । नु । धर्म॑णि । ग्म॒न् ॥इना । उत । पृच्छ । जनिम । कवीनाम् । मनःधृतः । सुकृतः । तक्षत । द्याम् । इमाः । ऊँ इति । ते । प्रन्यः । वर्धमानाः । मनःवाताः । अध । नु । धर्मणि । ग्मन् ॥inā | uta | pṛccha | janima | kavīnām | manaḥ-dhṛtaḥ | su-kṛtaḥ | takṣata | dyām | imāḥ | oṃ iti | te | pra-nyaḥ | vardhamānāḥ | manaḥ-vātāḥ | adha | nu | dharmaṇi | gman