Sukta 3.38
अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः । अभि प्रियाणि मर्मृशत्पराणि कवीँरिच्छामि संदृशे सुमेधाः ॥
अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः । अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥
abhí taṣṭéva dīdhayā manīṣām atyo ná vājī su-dhúro jihā́naḥ | abhí priyā́ṇi marmṛ́śat párāṇi kavī́ṁr icchāmi saṁdṛ́śe su-medhā́ḥ ||
With a shaping vision, as a craftsman fashions, I set my thought in motion—like a swift, prize-winning steed well-yoked and eager to surge. Touching and awakening the dear and hidden breaths of life, I, of good intelligence, seek the seers for the inner seeing.
अ॒भि । तष्टा॑ऽइव । दी॒ध॒य॒ । म॒नी॒षाम् । अत्यः॑ । न । वा॒जी । सु॒ऽधुरः॑ । जिहा॑नः । अ॒भि । प्रि॒याणि॑ । मर्मृ॑शत् । परा॑णि । क॒वीन् । इ॒च्छा॒मि॒ । स॒म्ऽदृशे॑ । सु॒ऽमे॒धाः ॥अभि । तष्टाइव । दीधय । मनीषाम् । अत्यः । न । वाजी । सुधुरः । जिहानः । अभि । प्रियाणि । मर्मृशत् । पराणि । कवीन् । इच्छामि । सम्दृशे । सुमेधाः ॥abhi | taṣṭāiva | dīdhaya | manīṣām | atyaḥ | na | vājī | su-dhuraḥ | jihānaḥ | abh i | priyāṇi | marmṛśat | parāṇi | kavīn | icchāmi | sam-dṛśe | su-medhāḥ