Sukta 3.37
अर्वावतो न आ गह्यथो शक्र परावतः । उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥
अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वत॑: । उ॒ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥
arvāváto na ā́ gahy átho śakra parāvátaḥ | u lokó yás te adriva índrehá táta ā́ gahi ||
Come to us from the nearer reaches, and also, O mighty one, from the farther; from whatever world is thine, O lord of the thunderstone—O Indra, come here from there into this embodied field.
अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । अथो॒ इति॑ । श॒क्र॒ । प॒रा॒ऽवतः॑ । ऊँ॒ इति॑ । लो॒कः । यः । ते॒ । अ॒द्रि॒ऽवः॒ । इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥अर्वावतः । नः । आ । गहि । अथो इति । शक्र । परावतः । ऊँ इति । लोकः । यः । ते । अद्रिवः । इन्द्र । इह । ततः । आ । गहि ॥arvāvataḥ | naḥ | ā | gahi | atho iti | śakra | parāvataḥ | oṃ iti | lokaḥ | yaḥ | te | adri-vaḥ | indra | iha | tataḥ | ā | gahi