Sukta 3.34
इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम् । बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥
इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् । बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥
índra óṣadhīr asanod áhāni vanaspátīṃr asanod antárikṣam | bibhéda valáṃ nunudé vivā́co 'thā́bhavad damitā́bhikratūnām ||
Indra brought forth the healing herbs and the days; he brought forth the lords of the forest and the mid-world. He split the Vala and drove away the confusers of speech; then he became the tamer of hostile wills.
इन्द्रः॑ । ओष॑धीः । अ॒स॒नो॒त् । अहा॑नि । व॒न॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् । बि॒भेद॑ । व॒लम् । नु॒नु॒दे । विऽवा॑चः । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥इन्द्रः । ओषधीः । असनोत् । अहानि । वनस्पतीन् । असनोत् । अन्तरिक्षम् । बिभेद । वलम् । नुनुदे । विवाचः । अथ । अभवत् । दमिता । अभिक्रतूनाम् ॥indraḥ | oṣadhīḥ | asanot | ahāni | vanaspatīn | asanot | antarikṣam | bibheda | valam | nunude | vi-vācaḥ | atha | abhavat | damitā | abhi-kratūnām