Sukta 3.34
इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् । ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥
इन्द्र॑: पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् । ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ॥
índraḥ pū́r-bhid ā́ atirat dā́sām arkáiḥ vídat-vasur dáyamāno ví śátrūn | bráhma-jūtas tanvā̀ vāvṛdhānó bhū́ri-dātra ā́ apṛṇad ródasī ubhé ||
Indra, breaker of the strongholds, with the flaming hymns overpassed the Dāsa and scattered the foes; finding the true riches and pouring out his gift. Driven by the Word, growing in his own body of force, the bounteous giver filled both Heaven and Earth.
इन्द्रः॑ । पूः॒ऽभित् । आ । अ॒ति॒र॒त् । दास॑म् । अ॒र्कैः । वि॒दत्ऽव॑सुः । दय॑मानः । वि । शत्रू॑न् । ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒धा॒नः । भूरि॑ऽदात्रः । आ । अ॒पृ॒ण॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥इन्द्रः । पूःभित् । आ । अतिरत् । दासम् । अर्कैः । विदत्वसुः । दयमानः । वि । शत्रून् । ब्रह्मजूतः । तन्वा । ववृधानः । भूरिदात्रः । आ । अपृणत् । रोदसी इति । उभे इति ॥indraḥ | pūḥ-bhit | ā | atirat | dāsam | arkaiḥ | vidat-vasuḥ | dayamānaḥ | vi | śatrūn | brahma-jūtaḥ | tanvā | vavṛdhānaḥ | bhūri-dātraḥ | ā | apṛṇat | rodasī iti | ubhe iti