Sukta 3.33
ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन । नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥
ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न । नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभि॑: ॥
ó ṣú svasāraḥ kāráve śṛṇota yayáu vo dūrā́d anasā́ ráthena | ní ṣū namadhvaṃ bhávatā supārā́ adho-akṣā́ḥ síndhavaḥ srotyā́bhiḥ ||
O sisters, listen to the singer’s call; he has come to you from far away with cart and chariot. Bend down in a gracious yielding; become easy to cross—O streams—let your currents run low at the axle-depth.
ओ इति॑ । सु । स्व॒सा॒रः॒ । का॒रवे॑ । शृ॒णो॒त॒ । य॒यौ । वः॒ । दू॒रात् । अन॑सा । रथे॑न । नि । सु । न॒म॒ध्व॒म् । भव॑त । सु॒ऽपा॒राः । अ॒धः॒ऽअ॒क्षाः । सि॒न्ध॒वः॒ । स्रो॒त्याभिः॑ ॥ओ इति । सु । स्वसारः । कारवे । शृणोत । ययौ । वः । दूरात् । अनसा । रथेन । नि । सु । नमध्वम् । भवत । सुपाराः । अधःअक्षाः । सिन्धवः । स्रोत्याभिः ॥o iti | su | svasāraḥ | kārave | śṛṇota | yayau | vaḥ | dūrāt | anasā | rathena | ni | su | namadhvam | bhavata | su-pārāḥ | adhaḥ-akṣāḥ | sindhavaḥ | srotyābhiḥ