Sukta 3.33
एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि । उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥
ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ । उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि क॑: पुरुष॒त्रा नम॑स्ते ॥
etád váco jaritar mā́pi mṛṣṭhā́ ā́ yát te ghóṣān úttarā yugā́ni | uktheṣú kā́ro práti no juṣasva mā́ no ní kaḥ puruṣa-trā́ namas te ||
O singer, do not disregard this word: may your far-resounding call endure through the later ages. In our hymns accept the cry and turn towards us in consent; do not cast us down anywhere—O Power that works for man, to you is our obeisance.
ए॒तत् । वचः॑ । ज॒रि॒तः॒ । मा । अपि॑ । मृ॒ष्ठाः॒ । आ । यत् । ते॒ । घोषा॑न् । उत्ऽत॑रा । यु॒गानि॑ । उ॒क्थेषु॑ । का॒रो॒ इति॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ । मा । नः॒ । नि । क॒रिति॑ कः । पु॒रु॒ष॒ऽत्रा । नमः॑ । ते॒ ॥एतत् । वचः । जरितः । मा । अपि । मृष्ठाः । आ । यत् । ते । घोषान् । उत्तरा । युगानि । उक्थेषु । कारो इति । प्रति । नः । जुषस्व । मा । नः । नि । करिति कः । पुरुषत्रा । नमः । ते ॥etat | vacaḥ | jaritaḥ | mā | api | mṛṣṭhāḥ | ā | yat | te | ghoṣān | ut-tarā | yugāni | uktheṣu | kāro iti | prati | naḥ | juṣasva | mā | naḥ | ni | karitikaḥ | puruṣa-trā | namaḥ | te