Sukta 3.33
प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् । वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥
प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् । वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥
pravā́cyaṃ śaśvadhā́ vī́ryaṃ tád índrasya kárma yád áhiṃ vivṛścát | ví vájreṇa paríṣado jaghānā́yann ā́po áyanam icchámānāḥ ||
Ever to be spoken is that heroic power—Indra’s deed—when he cut apart the Serpent. With the thunderbolt he struck down the enclosing seats of resistance; then the waters came forward, longing for their path, seeking their free course.
प्र॒ऽवाच्य॑म् । श॒श्व॒धा । वी॒र्य॑म् । तत् । इन्द्र॑स्य । कर्म॑ । यत् । अहि॑म् । वि॒ऽवृ॒श्चत् । वि । वज्रे॑ण । प॒रि॒ऽषदः॑ । ज॒घा॒न॒ । आय॑न् । आपः॑ । अय॑नम् । इ॒च्छमा॑नाः ॥प्रवाच्यम् । शश्वधा । वीर्यम् । तत् । इन्द्रस्य । कर्म । यत् । अहिम् । विवृश्चत् । वि । वज्रेण । परिषदः । जघान । आयन् । आपः । अयनम् । इच्छमानाः ॥pra-vācyam | śaśvadhā | vīryam | tat | indrasya | karma | yat | ahim | vi-vṛścat | vi | vajreṇa | pari-ṣadaḥ | jaghāna | āyan | āpaḥ | ayanam | icchamānāḥ