Sukta 3.33
इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् । देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥
इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीना॑म् । दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥
índro asmā́m aradad vájra-bāhur ápāhan vṛtráṃ paridhíṃ nadī́nām | devó anayatsavitā́ supā́ṇis tásya vayáṃ prasavé yāma urvī́ḥ ||
Indra of the thunder-arm made a way for us; he smote away Vṛtra, the hemming barrier of the rivers. The god Savitṛ, with good hands, led us onward; by that divine impulsion we travel the wide spaces.
इन्द्रः॑ । अ॒स्मान् । अ॒र॒द॒त् । वज्र॑ऽबाहुः । अप॑ । अ॒ह॒न् । वृ॒त्रम् । प॒रि॒ऽधिम् । न॒दीना॑म् । दे॒वः॑ । अ॒न॒य॒त् । स॒वि॒ता । सु॒ऽपा॒णिः । तस्य॑ । व॒यम् । प्र॒ऽस॒वे । या॒मः॒ । उ॒र्वीः ॥इन्द्रः । अस्मान् । अरदत् । वज्रबाहुः । अप । अहन् । वृत्रम् । परिधिम् । नदीनाम् । देवः । अनयत् । सविता । सुपाणिः । तस्य । वयम् । प्रसवे । यामः । उर्वीः ॥indraḥ | asmān | aradat | vajra-bāhuḥ | apa | ahan | vṛtram | pari-dhim | nadīnām | devaḥ | anayat | savitā | su-pāṇiḥ | tasya | vayam | pra-save | yāmaḥ | urvīḥ