Sukta 3.33
रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवै॑: । प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥
rámadhvaṃ me vácase somyā́ya ṛ́tāvarīr úpa muhūrtám eváiḥ | prá síndhum ácchā bṛhatī́ manīṣā́vasyúr ahve kuśíkasya sūnúḥ ||
Take delight in my word, O upholders of ṛta, for it is born of Soma; draw near for a moment with your swift courses. Toward the Sindhu my vast thought goes forth; I, the son of Kuśika, calling in the need, invoke you for help.
रम॑ध्वम् । मे॒ । वच॑से । सो॒म्याय॑ । ऋत॑ऽवरीः । उप॑ । मु॒हू॒र्तम् । एवैः॑ । प्र । सिन्धु॑म् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । अ॒व॒स्युः । अ॒ह्ने॒ । कु॒शि॒कस्य॑ । सू॒नुः ॥रमध्वम् । मे । वचसे । सोम्याय । ऋतवरीः । उप । मुहूर्तम् । एवैः । प्र । सिन्धुम् । अच्छ । बृहती । मनीषा । अवस्युः । अह्ने । कुशिकस्य । सूनुः ॥ramadhvam | me | vacase | somyāya | ṛta-varīḥ | upa | muhūrtam | evaiḥ | pra | sindhum | accha | bṛhatī | manīṣā | avasyuḥ | ahne | kuśikasya | sūnuḥ