Sukta 3.33
एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥
ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः । न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥
énā vayáṃ páyasā pínvamānā ánu yóniṃ devákṛtaṃ cárantīḥ | ná vártave prasaváḥ sárga-taktaḥ kiṃyúr vípro nadyò johavīti ||
By this (path) we, swelling with the milk of nourishment, move following the womb shaped by the gods. The impulsion fashioned for the streaming does not turn back; the inspired seer calls to the rivers, eager to know their secret course and to win their consenting passage.
ए॒ना । व॒यम् । पय॑सा । पिन्व॑मानाः । अनु॑ । योनि॑म् । दे॒वऽकृ॑तम् । चर॑न्तीः । न । वर्त॑वे । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । कि॒म्ऽयुः । विप्रः॑ । न॒द्यः॑ । जो॒ह॒वी॒ति॒ ॥एना । वयम् । पयसा । पिन्वमानाः । अनु । योनिम् । देवकृतम् । चरन्तीः । न । वर्तवे । प्रसवः । सर्गतक्तः । किम्युः । विप्रः । नद्यः । जोहवीति ॥enā | vayam | payasā | pinvamānāḥ | anu | yonim | deva-kṛtam | carantīḥ | na | vartave | pra-savaḥ | sarga-taktaḥ | kim-yuḥ | vipraḥ | nadyaḥ | johavīti