Sukta 3.33
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् । प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥
अता॑रिषुर्भर॒ता ग॒व्यव॒: समभ॑क्त॒ विप्र॑: सुम॒तिं न॒दीना॑म् । प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणा॑: पृ॒णध्वं॑ या॒त शीभ॑म् ॥
atā́riṣur bharatā́ gavyávaḥ sám abhakta vípraḥ su-matíṃ nadī́nām | prá pinvadhvam iṣáyantīḥ su-rā́dhā ā́ vakṣaṇā́ḥ pṛṇádhvaṃ yā́ta śī́bham ||
The Bharatas, seekers of the rays, have crossed; the seer has won the rivers’ gracious harmony. O well-accomplishing streams, swell forth, pressing on with the impetus; fill your bosoms and move swiftly.
अता॑रिषुः । भ॒र॒ताः । ग॒व्यवः॑ । सम् । अभ॑क्त । विप्रः॑ । सु॒ऽम॒तिम् । न॒दीना॑म् । प्र । पि॒न्व॒ध्व॒म् । इ॒षय॑न्तीः । सु॒ऽराधा॑ । आ । व॒क्षणाः॑ । पृ॒णध्व॑म् । या॒त । शीभ॑म् ॥अतारिषुः । भरताः । गव्यवः । सम् । अभक्त । विप्रः । सुमतिम् । नदीनाम् । प्र । पिन्वध्वम् । इषयन्तीः । सुराधा । आ । वक्षणाः । पृणध्वम् । यात । शीभम् ॥atāriṣuḥ | bharatāḥ | gavyavaḥ | sam | abhakta | vipraḥ | su-matim | nadīnām | pra | pinvadhvam | iṣayantīḥ | su-rādhā | ā | vakṣaṇāḥ | pṛṇadhvam | yāta | śībham