Sukta 3.33
यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः । अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥
यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः । अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥
yád aṅgá tvā bharatā́ḥ saṃ-táreyur gavyán grā́ma iṣitá índra-jūtaḥ | árṣād áha prasaváḥ sárga-takta ā́ vo vṛṇe su-matíṃ yajñíyānām ||
When, O indeed, the Bharatas would cross you seeking the luminous herds, the moving host urged on by Indra’s force, then may the impulsion rush forward, fashioned as a releasing stream; I choose for you the right-minded grace of the sacrificers.
यत् । अ॒ङ्ग । त्वा॒ । भ॒र॒ताः । स॒म्ऽतरे॑युः । ग॒व्यन् । ग्रामः॑ । इ॒षि॒तः । इन्द्र॑ऽजूतः । अर्षा॑त् । अह॑ । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । आ । वः॒ । वृ॒णे॒ । सु॒ऽम॒तिम् । य॒ज्ञिया॑नाम् ॥यत् । अङ्ग । त्वा । भरताः । सम्तरेयुः । गव्यन् । ग्रामः । इषितः । इन्द्रजूतः । अर्षात् । अह । प्रसवः । सर्गतक्तः । आ । वः । वृणे । सुमतिम् । यज्ञियानाम् ॥yat | aṅga | tvā | bharatāḥ | sam-tareyuḥ | gavyan | grāmaḥ | iṣitaḥ | indra-jūtaḥ | arṣāt | aha | pra-savaḥ | sarga-taktaḥ | ā | vaḥ | vṛṇe | su-matim | yajñiyānām