Sukta 3.33
उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥
उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत । मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ॥
úd va ūŕmiḥ śámyā hantu ā́po yóktrāṇi muñcata | mā́ duṣ-kṛtáu ví-enasā́ghnyau śū́nam ā́ aratām ||
Let the rising wave strike away the wooden stakes; O Waters, loosen the yokes. Let not the two guiltless ones be harmed through ill-doing or fault; let them come to safety and well-being.
उत् । वः॒ । ऊ॒र्मिः । शम्याः॑ । ह॒न्तु॒ । आपः॑ । योक्त्रा॑णि । मु॒ञ्च॒त॒ । मा । अदुः॑ऽकृतौ । विऽए॑नसा । अ॒घ्न्यौ । शून॑म् । आ । अ॒र॒ता॒म् ॥उत् । वः । ऊर्मिः । शम्याः । हन्तु । आपः । योक्त्राणि । मुञ्चत । मा । अदुःकृतौ । विएनसा । अघ्न्यौ । शूनम् । आ । अरताम् ॥ut | vaḥ | ūrmiḥ | śamyāḥ | hantu | āpaḥ | yoktrāṇi | muñcata | mā | aduḥ-kṛtau | vi-enasā | aghnyau | śūnam | ā | aratām