Sukta 3.32
इन्द्र सोमं सोमपते पिबेमं माध्यंदिनं सवनं चारु यत्ते । प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व ॥
इन्द्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ । प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ॥
índra sómaṃ somapate píba imáṃ mā́dhyandinaṃ sávanaṃ cā́ru yát te | praprúthyā śípre maghavann ṛjīṣin vimúcyā hárī ihá mādayasva ||
O Indra, lord of Soma, drink this Soma—this mid-day pressing, delightful to you. Having filled out your cheeks, O bounteous one rich in the sacred draught, unyoking your two powers, take delight here in the ecstasy.
इन्द्र॑ । सोम॑म् । सो॒म॒ऽप॒ते॒ । पिब॑ । इ॒मम् । माध्य॑न्दिनम् । सव॑नम् । चारु॑ । यत् । ते॒ । प्र॒ऽप्रुथ्य॑ । शिप्रे॒ इति॑ । म॒घ॒ऽवन् । ऋ॒जी॒षि॒न् । वि॒ऽमुच्य॑ । हरी॒ इति॑ । इ॒ह । मा॒द॒य॒स्व॒ ॥इन्द्र । सोमम् । सोमपते । पिब । इमम् । माध्यन्दिनम् । सवनम् । चारु । यत् । ते । प्रप्रुथ्य । शिप्रे इति । मघवन् । ऋजीषिन् । विमुच्य । हरी इति । इह । मादयस्व ॥indra | somam | soma-pate | piba | imam | mādhyandinam | savanam | cāru | yat | te | pra-pruthya | śipreiti | magha-van | ṛjīṣin | vi-mucya | harī iti | iha | mādayasva