Sukta 3.31
सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् । प्र णो दिवः पदवीर्गव्युरर्चन्त्सखा सखीँरमुञ्चन्निरवद्यात् ॥
स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण॑म् । प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखीँ॑रमुञ्च॒न्निर॑व॒द्यात् ॥
satáḥ-satáḥ pratimā́naṃ puró-bhūr víśvā veda jánimā hánti śúṣṇam | prá ṇo diváḥ padavī́r gavyúr arcant sakhā́ sakhī́m̐r amuñcan nír avadyā́t ||
He who becomes the measure for each state of being, the one who goes in front, knows all births and smites Śuṣṇa (the withering power). For us the seeker of the radiant herds has opened the paths of heaven by the shining chant; the Friend has released his companions from the fault that binds.
स॒तःऽस॑तः । प्र॒ति॒ऽमान॑म् । पु॒रः॒ऽभूः । विश्वा॑ । वे॒द॒ । जनि॑म । हन्ति॑ । शुष्ण॑म् । प्र । नः॒ । दि॒वः । प॒द॒ऽवीः । ग॒व्युः । अर्च॑न् । सखा॑ । सखी॑न् । अ॒मु॒ञ्च॒त् । निः । अ॒व॒द्यात् ॥सतःसतः । प्रतिमानम् । पुरःभूः । विश्वा । वेद । जनिम । हन्ति । शुष्णम् । प्र । नः । दिवः । पदवीः । गव्युः । अर्चन् । सखा । सखीन् । अमुञ्चत् । निः । अवद्यात् ॥sataḥ-sataḥ | prati-mānam | puraḥ-bhūḥ | viśvā | veda | janima | hanti | śuṣṇam | pra | ṇaḥ | divaḥ | pada-vīḥ | gavyuḥ | arcan | sakhā | sakhīn | amuñcat | niḥ | avadyāt