Sukta 3.31
अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः । ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥
अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रि॑: । स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ॥
ágacchad u viprátamaḥ sakhīyán asū́dayat sukṛ́te gárbham ádriḥ | sasā́na máryo yúvabhir makhasyán áthābhavad áṅgirāḥ sadyó arcan ||
The most inspired one moved forward, seeking comradeship; the Stone brought to birth, for the well-doer, the hidden embryo (of light). The young hero prevailed with his youthful powers, pressing forward in the glad offering; then the Angirases at once broke into the chant of illumination.
अग॑च्छत् । ऊँ॒ इति॑ । विप्र॑ऽतमः । स॒खि॒ऽयन् । असू॑दयत् । सु॒ऽकृते॑ । गर्भ॑म् । अद्रिः॑ । स॒सान॑ । मर्यः॑ । युव॑ऽभिः । म॒ख॒स्यन् । अथ॑ । अ॒भ॒व॒त् । अङ्गि॑राः । स॒द्यः । अर्च॑न् ॥अगच्छत् । ऊँ इति । विप्रतमः । सखियन् । असूदयत् । सुकृते । गर्भम् । अद्रिः । ससान । मर्यः । युवभिः । मखस्यन् । अथ । अभवत् । अङ्गिराः । सद्यः । अर्चन् ॥agacchat | oṃ iti | vipra-tamaḥ | sakhi-yan | asūdayat | su-kṛte | garbham | adriḥ | sasāna | maryaḥ | yuva-bhiḥ | makhasyan | atha | abhavat | aṅgirāḥ | sadyaḥ | arcan