Sukta 3.31
विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथ॑: पू॒र्व्यं स॒ध्र्य॑क्कः । अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥
vídad yadī́ sarámā rugṇám adréḥ máhi pā́thaḥ pū́rvyaṃ sadhryàk kaḥ | ágraṃ nayat supády ákṣarāṇām ácchā rávaṃ prathamā́ jānatī́ gāt ||
When Saramā found the broken opening of the rock, the great primeval path, moving straight—how indeed? She led to the forefront the firm-footed syllables; first, knowing, she went toward the cry.
वि॒दत् । यदि॑ । स॒रमा॑ । रु॒ग्णम् । अद्रेः॑ । महि॑ । पाथः॑ । पू॒र्व्यम् । स॒ध्र्य॑क् । क॒रिति॑ कः । अग्र॑म् । न॒य॒त् । सु॒ऽपदी॑ । अक्ष॑राणाम् । अच्छ॑ । रव॑म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥विदत् । यदि । सरमा । रुग्णम् । अद्रेः । महि । पाथः । पूर्व्यम् । सध्र्यक् । करिति कः । अग्रम् । नयत् । सुपदी । अक्षराणाम् । अच्छ । रवम् । प्रथमा । जानती । गात् ॥vidat | yadi | saramā | rugṇam | adreḥ | mahi | pāthaḥ | pūrvyam | sadhryak | kariti kaḥ | agram | nayat | su-padī | akṣarāṇām | accha | ravam | prathamā | jānatī | gāt