Sukta 3.31
अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् । तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ॥
अ॒भि जैत्री॑रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् । तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षास॒: पति॒र्गवा॑मभव॒देक॒ इन्द्र॑: ॥
abhí jaitrī́r asacanta spṛdhānáṃ máhi jyótiḥ támaso nír ajānan | táṃ jānatī́ḥ práty udā́yann uṣā́sāḥ pátir gávām abhavad éka índraḥ ||
The conquering powers pressed upon the challenger; they brought out the great Light from the darkness. Knowing him, the Dawns rose to meet him; Indra alone became the Lord of the rays.
अ॒भि । जैत्रीः॑ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि॑ । ज्योतिः॑ । तम॑सः । निः । अ॒जा॒न॒न् । तम् । जा॒न॒तीः । प्रति॑ । उत् । आ॒य॒न् । उ॒षसः॑ । पतिः॑ । गवा॑म् । अ॒भ॒व॒त् । एकः॑ । इन्द्रः॑ ॥अभि । जैत्रीः । असचन्त । स्पृधानम् । महि । ज्योतिः । तमसः । निः । अजानन् । तम् । जानतीः । प्रति । उत् । आयन् । उषसः । पतिः । गवाम् । अभवत् । एकः । इन्द्रः ॥abhi | jaitrīḥ | asacanta | spṛdhānam | mahi | jyotiḥ | tamasaḥ | niḥ | ajānan | tam | jānatīḥ | prati | ut | āyan | uṣasaḥ | patiḥ | gavām | abhavat | ekaḥ | indraḥ