Sukta 3.31
अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात् । प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥
अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् । प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
ádeḍiṣṭa vṛtrahā́ gopátir gā́ antáḥ kṛṣṇā́m aruṣáir dhā́mabhir gāt | prá sūnṛ́tā diśámāna ṛténa dúraś ca víśvā avṛṇod ápa svā́ḥ ||
The slayer of obstruction, lord of the luminous herds, has set the cows moving within the darkness by his ruddy seats of power. He puts forth the true inspirations, measuring out the directions by the law of Truth; he has opened wide all the doors that were his own.
अदे॑दिष्ट । वृ॒त्र॒ऽहा । गोऽप॑तिः । गाः । अ॒न्तरिति॑ । कृ॒ष्णान् । अ॒रु॒षैः । धाम॑ऽभिः । गा॒त् । प्र । सू॒नृताः॑ । दि॒शमा॑नः । ऋ॒तेन॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥अदेदिष्ट । वृत्रहा । गोपतिः । गाः । अन्तरिति । कृष्णान् । अरुषैः । धामभिः । गात् । प्र । सूनृताः । दिशमानः । ऋतेन । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥adediṣṭa | vṛtra-hā | go--patiḥ | gāḥ | antariti | kṛṣṇān | aruṣaiḥ | dhāma-bhiḥ | gāt | pra | sūnṛtāḥ | diśamānaḥ | ṛtena | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ