Sukta 3.31
मिहः पावकाः प्रतता अभूवन्त्स्वस्ति नः पिपृहि पारमासाम् । इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥
मिह॑: पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति न॑: पिपृहि पा॒रमा॑साम् । इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥
míhaḥ pāvakā́ḥ prátatā abhūvan svastí naḥ pipṛhi pā́ram āsā́m | índra tvaṃ rathiráḥ pāhi no riṣó mákṣūmakṣū kṛṇuhi gojító naḥ ||
The purifying rains have spread themselves; carry us safely to the farther shore of these movements. O Indra, strong in the chariot-force, guard us from harm; swiftly, again and again, make us winners of the rays of Light.
मिहः॑ । पा॒व॒काः । प्रऽत॑ताः । अ॒भू॒व॒न् । स्व॒स्ति । नः॒ । पि॒पृ॒हि॒ । पा॒रम् । आ॒सा॒म् । इन्द्र॑ । त्वम् । र॒थि॒रः । पा॒हि॒ । नः॒ । रि॒षः । म॒क्षुऽम॑क्षु । कृ॒णु॒हि॒ । गो॒ऽजितः॑ । नः॒ ॥मिहः । पावकाः । प्रतताः । अभूवन् । स्वस्ति । नः । पिपृहि । पारम् । आसाम् । इन्द्र । त्वम् । रथिरः । पाहि । नः । रिषः । मक्षुमक्षु । कृणुहि । गोजितः । नः ॥mihaḥ | pāvakāḥ | pra-tatāḥ | abhūvan | svasti | naḥ | pipṛhi | pāram | āsām | indra | tvam | rathiraḥ | pāhi | naḥ | riṣaḥ | makṣu-makṣu | kṛṇuhi | go--jitaḥ | naḥ