Sukta 3.31
तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् । द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्त्सातये धाः ॥
तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् । द्रुहो॒ वि या॑हि बहु॒ला अदे॑वी॒: स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥
tám aṅgirasvád námasā saparyán návyaṃ kṛṇomi sányase purājā́m | drúho ví yāhi bahulā́ adevī́ḥ svàś ca no maghavantsā́taye dhāḥ ||
To him, Angiras-like, with obeisance and service, I fashion a new offering for the ancient-born. Drive far away the many hostile powers that are not divine; and, O bounteous one, set in us the luminous ease and the victory for attainment.
तम् । अ॒ङ्गि॒र॒स्वत् । नम॑सा । स॒प॒र्यन् । नव्य॑म् । कृ॒णो॒मि॒ । सन्य॑से । पु॒रा॒ऽजाम् । द्रुहः॑ । वि । या॒हि॒ । ब॒हु॒लाः । अदे॑वीः । स्वरिति॑ स्वः॑ । च॒ । नः॒ । म॒घ॒ऽव॒न् । सा॒तये॑ । धाः॒ ॥तम् । अङ्गिरस्वत् । नमसा । सपर्यन् । नव्यम् । कृणोमि । सन्यसे । पुराजाम् । द्रुहः । वि । याहि । बहुलाः । अदेवीः । स्वरिति स्वः । च । नः । मघवन् । सातये । धाः ॥tam | aṅgirasvat | namasā | saparyan | navyam | kṛṇomi | sanyase | purājām | druhaḥ | vi | yāhi | bahulāḥ | adevīḥ | svar itisvaḥ | ca | naḥ | magha-van | sātaye | dhāḥ