Sukta 3.31
न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम् । यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् ॥
न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् । यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ॥
ná jāmáye tā́nvo rিকthám āraik cakā́ra gárbhaṃ sanitúr nidhā́nam | yadī́ mā́taro janáyanta váhnim anyáḥ kartā́ sukŕtōr anyá ṛ́ndhan ||
He did not leave the body as an inheritance for the kinsman; he made the womb a hidden treasury of winning. When the Mothers bring forth the carrier-flame, one is the maker of the good work, another the kindler who increases it.
न । जा॒मये॑ । तान्वः॑ । रि॒क्थम् । अ॒रै॒क् । च॒कार॑ । गर्भ॑म् । स॒नि॒तुः । नि॒ऽधान॑म् । यदि॑ । मा॒तरः॑ । ज॒नय॑न्त । वह्नि॑म् । अ॒न्यः । क॒र्ता । सु॒ऽकृतोः॑ । अ॒न्यः । ऋ॒न्धन् ॥न । जामये । तान्वः । रिक्थम् । अरैक् । चकार । गर्भम् । सनितुः । निधानम् । यदि । मातरः । जनयन्त । वह्निम् । अन्यः । कर्ता । सुकृतोः । अन्यः । ऋन्धन् ॥na | jāmaye | tānvaḥ | riktham | araik | cakāra | garbham | sanituḥ | ni-dhānam | yadi | mātaraḥ | janayanta | vahnim | anyaḥ | kartā | su-kṛtoḥ | anyaḥ | ṛndhan